Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रूस-युक्रेन-देशयोः मध्ये प्रचलत: युद्धस्य एकं वर्षं समाप्तं भविष्यति। एतावता द्वयोः एकः अपि प्रत्यागन्तुं न इच्छति। द्वयोः देशयोः युद्धेन विश्वे तस्य प्रभावः दृश्यते । एतयोः देशयोः युद्धं निवारयितुं अमेरिकादेशः अवदत् यत् भारतीयप्रधानमन्त्री नरेन्द्रमोदी अस्य युद्धस्य समाप्त्यर्थं प्रमुखां भूमिकां निर्वहितुं शक्नोति। शुक्रवासरे पत्रकारसम्मेलने अमेरिकीराष्ट्रीयसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी अवदत् यत् - अस्य युद्धस्य निवारणाय भारतीयप्रधानमन्त्री नरेन्द्रमोदी रूसराष्ट्रपतिना सह वार्तालापं कर्तुं शक्नोति। सः अवदत् - अहं मन्ये पुतिन् अद्यापि युद्धं निवारयितुं शक्नोति। अस्य कृते अद्यापि समयः अस्ति। एतदर्थं प्रधानमन्त्री मोदी यत् किमपि कर्तुम् इच्छति तत्र वयं सहायतां दातुं शक्नुमः। 

अद्यतनवार्ता

भारतम्

विश्वम्