Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रतिवर्षम् इव वर्षेऽस्मिन् अपि देहल्याः वायुप्रदूषणं अत्यधिकं वर्धमानमस्ति । एतेन नगरजनाः श्वसनार्थं कष्टम् अनुभवन्ति । अधुना देहल्याः वायु-गुणवत्ता-सूचकाङ्कः पञ्चशताधिकं वर्तते येन देहल्याः स्थितिः वायुमारणकक्षः इव जातः अस्ति। नैके जनाः गृहात् बहिर्गन्तुम् अपि भयम् अनुभवन्ति । पञ्जाबप्रान्ते अद्यत्वे कृषिक्षेत्रेषु कृषकैः अत्यधिकमात्रायाम् आलवं ज्वालयन्ते इत्यपि प्रदूषणस्य एकं कारणम् अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्