Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सोमवासरे प्रातःकाले मध्यपूर्वस्य तुर्की, सीरिया, लेबनान, इजरायल् च इति चत्वारः देशाः भूकम्पेन कम्पिताः। अत्र १२ होरात्मके काले महान् भूकम्पः अभवत् । भूकम्पस्य केन्द्रबिन्दु: तुर्कीदेश: आसीत् अतः अत्र अधिकः विनाशः जातः। एतेन सह समीपवर्ति-सीरियादेशे अपि विनाशः अधिकः जातः। तुर्कीदेशे ७.८ तीव्रताया: भूकम्पे अद्यावधि १३०० जनाः मृताः। तुर्कीदेशं विहाय सीरिया, लेबनान, इजरायल्-देशेषु अपि नैके जना: मृताः सन्ति । यदा एषा घटना अभवत् तदा जनाः सुप्ताः आसन् अत: अधिकाः जनाः मृताः। ततः ६६ पश्चात्कम्पाः आगताः । भवनानि शतरंज-पत्राणि इव पतितानि। मार्गे भवनाशेषः एव दृश्यते। भवनावशेषेभ्यः इतोऽपि नैकानां जनानाम् आक्रन्दध्वनिः श्रूयते। अधुना पर्यन्तं पश्चात्कम्पाः जायन्ते येन जनेषु भयम् उद्विग्नता विषादः च द्रष्टुं शक्यन्ते।

अद्यतनवार्ता

भारतम्

विश्वम्