Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातविश्वविद्यालयस्य मानवसंसाधनविकासकेन्द्रद्वारा महाविद्यालयेषु पाठयितॄणां प्राध्यापकानां कृते (Faculty Development Programme) )संकायविकासकार्यक्रमः आयोजितः । संस्कृतसम्भाषणकौशलम् इति विषयमवलब्य सप्तमदिनाङ्कात् आयोजितायां कार्यशालायां नैके विद्वांसः समागतवन्तः।  महाविद्यालयस्य अभ्यासक्रमस्य पाठांशानां संस्कृतमाध्यमेन पाठनस्य प्रात्यक्षिकम् अपि अभवत्। सर्वत्र अन्याः भाषाः तत् तत् भाषया एव पाठ्यन्ते । आङ्ग्ल आङ्ग्लमाध्यमेन, हिन्दी हिन्दीमाध्यमेन परन्तु संस्कृतं प्रादेशिकभाषया अथवा हिन्दी भाषया एव पाठ्यन्ते । एतस्यां कार्यशालायां प्रतिभागिनः प्राध्यापकाः संस्कृतमाध्यमेन कथं पाठनीयं इति पठितवन्तः अपि च पाठयितुं प्रयत्नं कृतवन्तः। एतत् विहाय आधुनिकविश्वे संस्कृतं, प्रसारमाध्यमेषु संस्कृतं, संस्कृतसम्भाषणस्य आवश्यकता, संस्कृतक्रीडाः, सम्भाषणकौशलानि इत्यादयः विषयाः चर्चिताः।

त्रयोदशदिनाङ्के आयोजिते समापनकार्यक्रमे मुख्यातिथिरूपेण सरदारपटेलविश्वविद्यालयस्य कुलपतिः प्रो. शिरीषकुलकर्णी, गुजरातविश्वविद्यालयस्य कुलपतिः प्रो. हिमांशुपण्ड्या, संस्कृतभारत्याः प्रान्तसङ्घटनमन्त्री श्रीहिमाञ्जयपालिवालः, मानवसंसाधनविकासकेन्द्रस्य निदेशकः प्रो. जगदीशजोशी इत्यादयः उपस्थिताः आसन्।

प्रतिभागिनां मन्तव्यानुसारं एतया कार्यशालया संस्कृतभाषां संस्कृतमाध्यमेन पाठयितुं उत्साहः वर्धितः अस्ति। छात्राः संस्कृतसम्भाषशीलाः भवितुं शक्नुवन्ति। अनया पद्धत्या छात्रेषु अपि संस्कृतं प्रति आदरः वर्धिष्यते।

अद्यतनवार्ता

भारतम्

विश्वम्