Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संस्कृतभाषायाः प्रचाराय प्रसाराय च कार्यं कुर्वत्या संस्कृतभारत्या राजकोटस्य आर्षविद्यामन्दिरे चतुर्दिवसीय: शिबिरसञ्चालकानां प्रशिक्षणाय नैपुण्यवर्गः आयोजितः। दशदिवसीयसम्भाषणशिबिराणि संस्कृतसम्भाषणस्य आरम्भाय प्रथमं सोपानमस्ति। तदर्थं कुशलानां शिबिरचालकानां निर्माणाय एतस्य वर्गस्यायोजनं कृतमासीत्। एतस्मिन् वर्गे त्रिंशत् शिक्षकाः भागमवहन्। एतस्मिन् वर्गे सम्भाषणशिबिरस्य पाठ्यक्रमः, पाठ्यबिन्दवः, प्रशिक्षणपद्धति: उपस्थापनं, प्रयोगाः, क्रीडाः, कथाकथानाभ्यासः, गीताभ्यासः, व्यवहारशिक्षणं, स्वमूल्याङ्कनं च इत्यादिभिः कार्यकर्तॄणां पाठनकौशलं वर्धितम्। शिक्षकाणां पाठनं संस्कृतभारत्याः अनुभवसिद्धैः कार्यकर्तृभिः कृतम्।

अद्यतनवार्ता

भारतम्

विश्वम्