Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रतिवर्षमिव एतस्मिन् वर्षेऽपि ध्रांगध्रा-जनपदस्य श्रीस्वामिनारायण-संस्कारधाम-गुरुकुले संस्कृतभारतीद्वारा त्रिस्तरीयः आवासीयः वर्गः आयोजितः आसीत्। श्रीस्वामिनारायणसंस्कारधामगुरुकुलस्य पवित्रे सात्विके च वातावरणे अत्युष्ण-तापमाने त्रिवर्षतः पञ्चाशत्वर्षपर्यन्तं येषां वयः ते अत्रागत्य संस्कृतसाधनां कृतवन्तः।

एतस्मिन् वर्गे नूतनानां संस्कृतसम्भाषण-इच्छुकानां कृते भाषाबोधनवर्गः, संस्कृतसम्भाषणशीलानां कृते सम्भाषणशिबिरस्य पाठनपद्धतिज्ञानाय शिबिरचालनप्रशिक्षणवर्गः अपि च स्वपरिवारं संस्कृतपरिवारं कर्तुं कृतसङ्कल्पानां परिवाराणां कृते कुटुम्बवर्गः आयोजितः आसीत्। वर्गस्य आयोजनाय कृतसङ्कल्पानां समर्पितानां स्वयंसेवकानां शिक्षकाणां प्रबन्धकानां च परिश्रमः सहजतया दृश्यते एव।

अत्र उपत्रिशतं शिबिरार्थिनः शिक्षकाः प्रबन्धकाः च भागमवहन्। आदिनं अखण्डं संस्कृतवातावरणं इति एतस्य वर्गस्य विशेषता आसीत् । प्रातःकालात् आरभ्य रात्रौ शयनपर्यन्तं प्रत्येकं जनः अत्र स्वस्य सर्वाः प्रवृत्तयः संस्कृतेन एव कर्तुं प्रयत्नं कुर्वन्ति। अत्र सम्भाषनशिबिरं, गणकार्यं, स्वाध्यायकार्यं, योगासनं, प्रातःस्मरणं, दृढीकरणं, भाषाक्रीडाः, वैचारिकसत्राणि, गीताभ्यासः, चर्चा, अनौपचारिककार्यक्रमः, नाटकानि, संवादाः इत्यादिभिः संस्कृतपठनस्य कार्यक्रमाः आयोज्यन्ते।

भाषाबोधनवर्गस्य अन्ते शिक्षार्थिनः दैनंदिनजीवनस्य क्रियाकलापं संस्कृतेन कर्तुं समर्थाः भवन्ति। शिबिरचालनप्रशिक्षणवर्गे अपि आगताः शिक्षार्थिनः कथं दशदिनानां शिबिरं चालनीयं इति सम्यक् पठितवन्तः।

कुटुम्बवर्गः इति एकः नूतनः प्रयोगः अपि अत्र अभवत्। ये परिवाराः स्वस्य परिवारस्य भाषां संस्कृतं कर्तुम् इच्छन्ति ते अत्र स्वापत्यैः सह आगत्य गृहे संस्कृतवातावरणस्य परिकल्पनां पठितवन्तः । बालबालाभिः सह आगतां मातॄणां संस्कृतपठनस्य पाठनस्य च उत्साहः नितरां प्रशंसनीयमेव। लघुबालकानां दैनंदिनसंस्कृतसंवादाः मनः प्रफुल्लितं करोति स्म।

संस्कृतभारतीद्वारा आवर्षं दशदिवसानां सम्भाषाणशिबिराणां आयोजनं विविधेषु स्थलेषु भवति । अत्र संस्कृत-सम्भाषण-शिबिर-कौशलं पठितवन्तः छात्राः स्व स्व क्षेत्रे एतादृशाणां शिबिराणाम् आयोजनं करिष्यन्ति । अत्र आगताः मातरः अपि स्वगृहं गत्वा बालकेन्द्राणि चालयिष्यन्ति इति तासां सङ्कल्पः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्