Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एशियनखेलेषु लक्ष्यवेधनस्पर्धायां स्वर्णपदकं प्राप्तवान दीपककुमारः आङ्ग्लमाध्यमविद्यालये न अपि तु संस्कृत-गुरुकुले शिक्षा अधीता अस्ति। दीपकस्य मातृपितृभ्यां सः देहरादूनस्य एकस्मिन् गुरुकुले संस्कृतशिक्षाग्रहणाय प्रेषितः आसीत्। तत्र सः धाराप्रवाहं संस्कृतं वक्तुं समर्थः जातः । प्रसारमाध्यमजनैः सः वार्तालापे तेनोक्तं यत् चयनकालेऽपि सः पृष्ठे एव आसीत् परन्तु तदानीं तेन स्वगुरोः वचनानि स्मृतानि यत् स्वबलं मर्यादां च भवान् एव जानाति। स्पर्धायाः आरम्भे तस्य प्रदर्शनं यथायोग्यं नासीत् परन्तु संयमपरिश्रमादिगुणैः सः विजेता भवितुं समर्थः जातः। सः चतुरधिकद्विसहस्रतमवर्षादेव वेधनस्पर्धायां भागं स्वीकुर्वन्नस्ति। गतवर्षे एव तस्य भारतीयगणे चयनं जातमस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्