Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

शनिवासरात् दिल्लीनगरे निःशुल्कविद्युत् उपलब्धा न भविष्यति वा? अस्मिन् विषये अनुदानस्य समाप्तिः भविष्यति वा ? अधुना दिल्लीनगरस्य जनाः एतेषां प्रश्नानाम् उत्तराणि अन्विषयन्तः सन्ति। वस्तुतः देहल्याः ऊर्जामन्त्री श्वः (शनिवासरात्) दिल्लीनगरे निःशुल्कविद्युत् न भविष्यति इति उक्तवती अस्ति यतः निःशुल्कविद्युत्विषये दिल्लीसर्वकार: एलजी च अनयो: मध्ये द्वन्द्वः उत्पन्नः अस्ति। सम्प्रति दिल्लीनगरे ४६ लक्षाधिकाः परिवाराः निःशुल्कविद्युत्सेवां प्राप्नुवन्ति । देहल्याः ऊर्जामन्त्री आतिशी “एलजी विनयकुमारस्य उपरि विद्युत् अनुदानसम्बद्धं सञ्चिकां निरुद्धं कृतवान्” इति आरोपं कृतवती अस्ति। 

आतिश्या कृतानां आरोपाणाम् अनन्तरं एलजी-कार्यालयतः अपि प्रज्ञापनं नि:सारितम्। तै: उक्तं यत् आरोपाः निराधाराः इति। एलजीद्वारा विद्युत्मन्त्रिणे एलजीविरुद्धम् अनावश्यकराजनीतिं, मिथ्या आरोपं च न कर्तुं निर्देशः दत्त:अस्ति। मिथ्या आरोपं कृत्वा सा जनेषु भ्रान्तिं प्रसारयति। मुख्यमन्त्रिणा दिल्लीजनेभ्यः उत्तरं दातव्यं यत् अस्मिन् विषये निर्णयः एप्रिलमासस्य चतुर्थदिनपर्यन्तं किमर्थं लम्बितः अस्ति, यदि समयसीमा एप्रिलमासस्य १५ दिनाङ्कः आसीत्। किमर्थं सञ्चिका LG कृते ११ एप्रिल दिनाङ्के एव प्रेषिता तथा च १३ एप्रिल दिनाङ्के पत्रं लिखित्वा पत्रकारसम्मेलनं कृत्वा किमर्थम् एतत् नाटकं कृतम् अस्ति!!

अद्यतनवार्ता

भारतम्

विश्वम्