इजरायलहमासदेशयो: प्रचलति युद्धे इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू इत्यस्य महत् वक्तव्यं आगतम्। सः बुधवासरे (२८ मे २०२५) अवदत् यत् हमास-सङ्घस्य गाजा-प्रमुखः मोहम्मद-सिनवरः मारित: अस्ति। इजरायलसेना हमास-सङ्घस्य गाजा-प्रमुखं मोहम्मद-सिनवरं बहुकालात् अन्वेषयति स्म।