Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य गुजरातस्य कृते गौरवस्य दिवसः अस्ति यतः अद्य 'गरबा' इति युनेस्को-संस्थया २०२३ वर्षस्य अमूर्त-सांस्कृतिकपरम्परारूपेण घोषितम् अस्ति। अस्य कृते भारतेन वर्षद्वयात् पूर्वं गुजरातस्य प्रसिद्धा पारम्परिकनृत्यशैली गरबा इति प्रस्तावः कृतः आसीत्। अन्ततो गत्वा प्रस्तावोऽयं स्वीकृत: अस्ति। केन्द्रीयमन्त्री किशनरेड्डी मुख्यमन्त्री भूपेन्द्रपटेलः च यूनेस्को-संस्थायाः अस्य निर्णयस्य विषये सूचनां दत्तवन्तौ। यूनेस्को-संस्थायाः जालपुटे, सामाजिक-माध्यम-मञ्चेषु च अस्य विषये सूचना युनेस्को-संस्थया दत्ता अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्