Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रविवासरे राजधान्यां शिमलानगरे सहस्रशः जनानां उपस्थितौ सुखविन्दरसिंह सुक्खुः मुख्यमन्त्रीरूपेण, मुकेश अग्निहोत्रीः उपमुख्यमन्त्रीरूपेण शपथं गृहीतवन्तौ। राज्यपाल: राजेन्द्रविश्वनाथ अर्लेकर: उभौ पदस्य गोपनीयता शपथं दापितवान्। अवसरेऽस्मिन् कांग्रेसराष्ट्रीय-अध्यक्ष: मल्लिकार्जुनखडगे, पूर्वराष्ट्रीय-अध्यक्ष: राहुलगांधी, दलस्य राष्ट्रियमहासचिव प्रियंकागांधी, छत्तीसगढस्य मुख्यमंत्री भूपेशबघेल, राजस्थानस्य मुख्यमंत्री अशोकगहलोत: राज्यकांग्रेसप्रभारी राजीवशुक्लासहितं अनेके स्थानिकाः राष्ट्रियाः च नेतार: उपस्थिताः आसन्।

अद्यतनवार्ता

भारतम्

विश्वम्