Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिल्लीनगरे जी-२० शिखरसम्मेलनेन भारतस्य विश्वे सहभागितायाः अनेकानि द्वाराणि उद्घाटितानि सन्ति। भारत-मध्यपूर्व-यूरोप-आर्थिकसम्पथस्य निर्माणार्थं शिखरसम्मेलने तस्य घोषणा अभवत्। भारतं, यूएई, सऊदी अरब, अमेरिका, फ्रान्स, जर्मनी, इटली, यूरोपीयसङ्घं च आहत्य ८ देशानां अस्याः परियोजनायाः लाभम् इजरायल्-जॉर्डन्-देशौ अपि प्राप्स्यत:।

मुम्बईतः आरभ्यमाणः एषः नूतनः सम्पथ: चीनदेशस्य बेल्ट् एण्ड् रोड् इनिशिएटिव् (BRI) इत्यस्य विकल्पः भविष्यति। अयं सम्पथ: ६ सहस्रकि.मी. दीर्घः भविष्यति। अस्मिन् ३५०० कि.मी. समुद्रमार्ग: अपि अस्ति। सम्पथनिर्माणानन्तरं भारतात् `यूरोपदेशं प्रति द्रव्ययानवहने प्रायः ४०% समयस्य रक्षणं भविष्यति। सम्प्रति भारतात् कस्यापि द्रव्यस्य नौकायानेन जर्मनीदेशं प्राप्तुं ३६ दिवसाः भवन्ति, अस्मिन् मार्गे १४ दिवसाः रक्षिताः भविष्यन्ति। यूरोपदेशं प्रति प्रत्यक्षप्रवेशेन भारतस्य कृते आयातनिर्यातनं सुलभम् अल्पमूल्यं  च भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्