Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य वेदव्याकरणदर्शनविभागयोः तथा नवदेहलीस्थभारतीयदार्शनिकानुसन्धानपरिषदः च संयुक्ततत्त्वावधानेन वैदिकभाषादर्शनमुच्चारणविज्ञानञ्च इति विषयाधारेण समायोजितत्रिदिवसीयसङ्गोष्ठ्याः समापनसत्रं सम्पन्नम्। 

समापनसत्रे अध्यक्षत्वेन विश्वविद्यालयस्य कुलपतिः विजयकुमार सि. जी. महोदयः, मुख्यातिथिरूपेण नागपुरस्थस्य कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य कुलपतिः हरिरामत्रिपाठिमहोदयः, विशिष्टातिथिरूपेण तद्विश्वविद्यालयस्य कुलपतिचरा उमावैद्यमहोदया तथा विशिष्टवक्तृत्वेन देहलीस्थस्य लालबाहादुरशास्त्रिविश्वविद्यालयस्य आचार्यः रामसलाहीद्विवेदिमहोदयः च उपस्थिताः आसन्। 

सङ्गोष्ठ्यामस्यामेकादशराज्यात् शोधच्छात्राः पत्रवाचनं कृतवन्तः इति महद्गौरवस्य विषयः। तथैव सप्ततिः शोधपत्राणि सङ्गोष्ठ्यामस्यां प्रतिपादितानि। 

समापनसत्रे हरिरामत्रिपाठिमहोदयः वेदानामपौरुषेयत्वं विविधानामैतिहासिकानां दार्शनिकानां च मतानि उपस्थापितवान्। विशिष्टातिथिः उमावैद्यमहोदया शिशूनामुच्चारणसम्बद्धं विज्ञानं प्रतिपादितवती। तथैव विश्वविद्यालयस्य कुलपतिः उच्चारणविज्ञानेन छात्ररक्षणं सम्भवति तथा संस्कृतं विज्ञानस्य भाषा इति समुद्घोषितवान्। 

एवमेव पत्रवाचनसत्रयोः भारतीयदार्शनिकानुसन्धानपरिषदः निदेशिका पूजाव्यासमहोदया महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य साहित्य-विशिष्टसाहित्यविभागाध्यक्षः डा० तुलसीदासपारौहमहादयः, श्रीमहाकालेश्वरशोधसंस्थानस्य निदेशकः डा० पीयूषत्रिपाठिमहोदयः च उपस्थिताः आसन्। त्रिदिवसव्याप्यामस्यां सङ्गोष्ठ्यां कानि ज्ञानरत्नानि शोधार्थिभिः संगृहीतव्यानि इति विषये कुलपितमहोदयः दिग्दर्शनञ्चकार। सञ्चालनं डॉ.संकल्पमिश्रमहोदयेन कृतम्

 

वार्ताहर: - डॉ.दिनेश: चौबे,उज्जयिनी

अद्यतनवार्ता

भारतम्

विश्वम्