आक्सफोर्डनगरस्य प्रतिष्ठिते शेल्डोनियन-सभागृहे ९ अगस्त-दिनाङ्के शनिवासरे विश्वविद्यालयस्य कुलपते: प्रख्यातवैश्विकविदुषां शोधछात्राणां च उपस्थितौ औपचारिकसमारोहे अरानी हजारिका स्नातकपदवीं प्राप्य असमराज्यस्य प्रथमछात्रा अभवत् यया संस्कृते शास्त्रीयहिन्दीभाषायाम् च उपाधि: प्राप्त:।
अरानी आक्सफोर्डविश्वविद्यालयस्य वैलिओल महाविद्यालय: इति प्राचीनतमायां संस्थायां (१२६३ तमे वर्षे स्थापिता) एशिया-मध्यपूर्व-अध्ययनविभागे अध्ययनं कृतवती । सा संस्कृतभाषायां शास्त्रीयहिन्दीभाषायां च विशेषज्ञतां प्राप्तवती। एतत् एकम् अपूर्वं संयोजनम् अस्ति यत् प्रायश: स्नाकस्तरे न दृश्यते।
अधुना २१ वर्षीया सा यदा १८ वर्षीया आसीत् तदा तस्मिन् विश्वविद्यालये प्रवेशं प्राप्तवती आसीत्। असाधारणशैक्षणिकक्षमतायाः योग्यतायाः च कृते सा सिमोन-जून-ली-स्नातक-छात्रवृत्तिम् अपि प्राप्तवती।
आक्सफोर्डविश्वविद्यालये अध्ययनकाले सा असम-देशस्य माजुलीस्थितात् दखीनपत्-सत्रात् (श्रीमन्तशङ्करदेवेन स्थापिता संस्था) 15 शताब्द्याः ताडपत्र-पाण्डुलिपीनां मानकीकरणस्य प्रमाणीकरणस्य च विषये अत्यन्तं प्रशंसितं शोधपत्रं लिखितवती। असमस्य सांस्कृतिकसाहित्यस्य संरक्षणे च तस्याः कार्यस्य महत्त्वपूर्णं योगदानम् अस्ति। अरानी गुवाहाटीनगरस्य चान्दमारीनगरस्य होली चाइल्ड उच्चमाध्यमिकविद्यालयात् विद्यालयस्य अध्ययनं सम्पन्नवती। तस्या: पिता पार्थप्रतिमहजरिका वरिष्ठपत्रकार: असम ट्रिब्यूनपत्रिकायाः सहायकसम्पादक: च तथा माता सुदक्षिणा भूयान प्रतिष्ठितफेङ्गशुई तथा वास्तुपरामर्शदात्री स्त: ।