मध्यमदूरस्य बैलिस्टिकक्षेपणास्त्रस्य अग्नि-५ इत्यस्य २० अगस्त २०२५ दिनाङ्के ओडिशाराज्ये एकीकृतपरीक्षणक्षेत्रतः सफलतया परीक्षणं जातम्। रक्षामन्त्रालयस्य अनुसारम् अस्मिन् परीक्षणे सर्वेषां परिचालनात्मक-मापदण्डानां पुष्टिः अभवत्। एतत् देशस्य प्रथमं एकमात्रं च भूपृष्ठतः भूपृष्ठं यावत् अन्तरमहाद्वीपीयं बैलिस्टिक क्षेपणास्त्रम् (ICBM) अस्ति। अग्नि-पञ्चमस्य ५००० किलोमीटर् त: अधिका व्याप्तिः अस्ति। सम्पूर्णः चीनदेशः तस्य परिधिमध्ये आगच्छति, यूरोपस्य, आफ्रिकादेशस्य च बहवः भागाः अपि अस्य परिधौ अस्ति। अस्य वैशिष्ट्यमस्ति यत् एकवारं प्रक्षेपणं कृत्वा एकत्रैव बहुलक्ष्याणि साधयितुं शक्नोति अपि च सार्धटनपर्यन्तं परमाणुशस्त्राणि वहनं कर्तुं क्षमता अस्ति।