Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य योगविभागस्य तत्त्वावधाने योगशास्त्रे चित्तस्वरूपं संस्कारविज्ञानाञ्च इति विषये आभाषीयपटलमाध्यमेन ४ मै तमे दिनाङ्के  सायं ४ वादनत: विशिष्टव्याख्यानस्य आयोजनं जातम्। तत्र मुख्यवक्त्रीरूपेण राजस्थानवनस्थलीविद्यापीठस्य संस्कृतदर्शनवैदिकाध्ययनविभागस्य सहाचार्या डॉ. अंजनाशर्मा आसीत्। महोदया स्वव्याख्याने पातञ्जलयोगदर्शने वर्णितानां तत्त्वानां मानसिकदशाप्रकाराणां च परिभाषा, अष्टाङ्गयोगस्य उद्धरणं च प्रस्तुत्य, मनसः स्वरूपं संस्कृतिविज्ञानं च इत्यस्मिन् विषये संक्षिप्तं वक्तव्यं प्रदत्तवती। संरक्षक:, कुलगुरुः आचार्यः विजयकुमारसीजीमहोदयः योगविभागाय व्याख्यानस्य कृते नैका: शुभकामना:  प्रदत्तवान्। कुलसचिवेन प्रो.दिलीपसोनी महोदयेनापि व्याख्यानस्य सफलायोजनार्थं शुभकामना: दत्ता। सत्रस्याध्यक्षा योगविभागप्रमुखा डॉ.पूजा उपाध्यायमहोदया अवदत् यत् योगस्य व्यवहारिकपक्षेणसह दार्शनिकपक्षस्य ज्ञानस्य आवश्यकता वर्तते।  स्वागतभाषणं डॉ. वरुण आहूजा महोदयेन, संचालनं सुश्रीईशापाटीदारमहोदयया, धन्यवादज्ञापनं च रघुवीरपटेलमहोदयेन कृतम्।  व्याख्यानकार्यक्रमे छात्राः, शोधकर्तारः, विभागप्रमुखाः, शिक्षकाः इत्यादया: सम्मिलिता: भूत्वा आभासीयपटलमाध्यमेन व्याख्यानं श्रुतवन्तः।  

वार्ताहर: - डॉ.दिनेश चौबे, उज्जयिनी

अद्यतनवार्ता

भारतम्

विश्वम्