देशे सर्वत्र प्रावृष: आरम्भः एव अभवत्, तत्र हिमाचलप्रदेश-उत्तराखण्ड-बिहार-झारखण्ड-गुजरात-इत्यादिषु अनेकेषु राज्येषु मेघराजेन उग्ररूपं धृतमस्ति। हिमाचलस्य मण्डीनगरे विनाश: दृश्यते। अत्र गृहाणि, मार्गा:, वाहनानि च प्रक्षालितानि, अनेके जना: लुप्ता: इति सूचनाः अपि प्रकाशिताः । एतदतिरिक्तं उत्तराखण्डे बिहारे च प्रचण्डवृष्ट्या प्राणहानिः सम्पत्तिक्षतिः च अभवत् । विगत- २४ घण्टासु बिहारे ५ जनानां मृत्युः अभवत् । रविवासरे बिहारस्य गयानगरस्य लगुराहीजलप्रपातस्य जलस्तरस्य आकस्मिकवृद्ध्या ६ बालिकाः प्रचण्डप्रवाहे वाहिताः, तदनन्तरं स्थानीयजनै: सर्वा: बालिकाः रक्षिता:। भारतीयजलवायुविभागेन पुनः अनेकेषु राज्येषु वर्षा आपदासचेतना प्रसारिता अस्ति। विभागस्य भविष्यवाणीं दृष्ट्वा इदं दृश्यते यत् एषः मेघराजस्य ताण्डवलीला शनै: वर्धमाना अस्ति। मेघराजः पुनः निकटभविष्यत्काले एतेषु राज्येषु प्रकोपं जनयितुं शक्नोति।