Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एतत् विश्वे प्रथमवारम् अभवत् यदा कारयानं स्वयमेव क्रयणस्थानात् बहिः आगत्य चालकं विना क्रेतुः गृहं प्राप्नोत् । गृहगमनार्थं त्रिंशत् निमेषाणां समय: गत: । विश्वस्य धनीव्यापारिणः एलोन् मस्कस्य जन्मदिवसस्य एकदिनपूर्वं जूनमासस्य २७ दिनाङ्के टेस्ला-कम्पनी स्वस्य पूर्णतया स्वायत्त(स्वयं संचालित) कारयानस्य विक्रयणं जातम्।   एतत् 'मॉडेल् वाई' विद्युत्कारयानम् अस्ति । मस्कः अवदत् यत् याने काऽपि व्यक्तिः नासीत्, दूरस्थसञ्चालकः अपि कारस्य नियन्त्रणं न करोति इति । एआइ-प्रमुखः टेस्ला-संस्थायाः ऑटोपायलट् च अशोक एलुस्वामि इत्यस्य मतेन कारयानस्य गतिः ७२ मील प्रतिघण्टा (अर्थात् ११६ कि.मी. प्रतिघण्टा) आसीत् । टेस्ला इत्यनेन प्रथमवारं २०१९ तमस्य वर्षस्य मार्चमासे मॉडल् वाई इति प्रक्षेपणं कृतम् ।

अद्यतनवार्ता

भारतम्

विश्वम्