जनगणनायाः प्रतीक्षा चिरकालात् आसीत् । इदानीं सा प्रतीक्षा समाप्तिं प्रति गच्छति। जनगणनायाः संचालनार्थं केन्द्रसर्वकारेण पूर्वमेव राजपत्रं निर्गतम् अस्ति। अस्मिन् समये देशे भविता जनगणना द्विधा भविष्यति। इतरथा भारतस्य महानिबन्धकेन उक्तं यत् आगामिवर्षस्य एप्रिलमासस्य प्रथमदिनात् प्रथमचरणस्य जनगणनायाः आरम्भः भविष्यति। अस्मिन् काले जनानां गृहेषु उपस्थितानां वाहनानां, इलेक्ट्रॉनिकसामग्रीणां, अन्यसुविधानां च विषये सूचनाः एकत्रिताः भविष्यन्ति। अस्मिन् विषये जनगणना आयुक्तेन भारतस्य महानिबन्धकेन च राज्यानां मुख्यसचिवानां कृते पत्रं लिखितम् अस्ति। प्राप्तसूचनानुसारं प्रथमचरणस्य वस्तूनां सूची भविष्यति। अस्य अन्तर्गतं जनानां आवासीयस्थितिः, सम्पत्तिः, सुविधाः चेत्यस्मिन् विषये सूचनाः एकत्रिताः भविष्यन्ति । द्वितीयचरणे गृहे निवसतां प्रत्येकं जनस्य जनसांख्यिकीय-सामाजिक-आर्थिक-आदि-सूचनाः संगृहीताः भविष्यन्ति । जनगणनायाः द्वितीयचरणं २०२७ तमस्य वर्षस्य फेब्रुवरी-मासस्य प्रथमे दिने निर्धारितम् अस्ति ।