Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लोकसभानिर्वाचनस्य चतुर्थचरणस्य मतदानात् एकदिनपूर्वं झारखण्डे महती घटना जाता। अत्र पलामुक्षेत्रे विस्फोटे त्रयः नवयुवका: अन्य: एक:, आहत्य चत्वारः जनाः मृताः, जनद्वयं च आहतौ इति सूचना अस्ति। प्राप्तप्रतिवेदनानुसारं मनातूक्षेत्रे एकस्मिन् अवकरविक्रेतु: स्थाने विस्फोटः अभवत्। एकः वरिष्ठः अधिकारी अवदत् यत् राञ्जीतः प्रायः १९० कि.मी दूरे दुर्घटना अभवत्। लोकसभानिर्वाचनस्य पूर्वसंध्यायां घटिताया: घटनाया: कारणानाम् अन्वेषणं चलति।

अद्यतनवार्ता

भारतम्

विश्वम्