Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिल्लीनगरस्य राष्ट्रपतिभवनस्य मुगल-उद्यानस्य नाम परिवर्तनं जातम्। मुगल-उद्यानम् अधुना 'अमृत-उद्यान' इति नाम्ना प्रसिद्धं भविष्यति । सूचनां दत्त्वा राष्ट्रपतिभवनस्य प्रेससचिवः अजयसिंहः अवदत् यत् राष्ट्रपतिभवने वर्तमानस्य मुगल-उद्यानस्य अधुना 'अमृतोद्यानम्' इति परिचयः भविष्यति इति निर्णयः कृतः। एतत् उद्यानं प्रतिवर्षं वसन्तऋतौ सामान्यजनानां कृते उद्घाटितं भवति । यत्र प्रवासिनः सहस्राणि विविधानि पुष्पाणि द्रष्टुं शक्नुवन्त।दिल्लीनगरस्य मुगल-उद्यानं 'राष्ट्रपतिभवनस्य आत्मा' इत्यपि कथ्यते । १५ एकर भूमौ विस्तृतं मुगल-उद्यानं आङ्ग्लैः निर्मितम् अस्ति। एडवर्ड लुट्येन्स् द्वारा राष्ट्रपतिभवनस्य, मुगल-उद्यानस्य च परिकल्पना कृता आसीत्। 

अद्यतनवार्ता

भारतम्

विश्वम्