Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातस्य अहमदाबादनगरे संस्कृतभारतीद्वारा विविधानां त्रयोदशसंस्थानां सहयोगेन संस्कृतसम्मेलनस्य आयोजनं चतुर्विंशतिः दिनाङ्के अभवत्। संस्कृतक्षेत्रे कार्यं कुर्वत्याः संस्थाः एकस्मिन् मञ्चे एकत्रिताः सम्भूय संस्कृतभाषायाः प्रचारस्य चिन्तनं कुर्वन्ति इति संस्कृतक्षेत्रस्य कृते गौरवस्य विषयः प्रेरणाप्रदः च अवसरः।  सम्मेलनस्य शुभारम्भः शोभायात्रायाः अभवत्। शोभायात्रायां विविधसंस्थानां कर्मचारिणः छात्राः नगरजनाः च भागं अवहन्। संस्कृतभाषायाः महत्त्वं प्रकटयन्ति फलकानि प्रदर्शयन्तः सूत्रोच्चारं च कुर्वन्तः संस्कृतप्रेमिणः नगरजनानाम् आकर्षणकेन्द्रम् अभवन्। शोभायात्रायाः समापनं एच.के.आर्ट्स महाविद्यालयस्य सभागारे अभवत्।

सभागारे सार्वजनिकसभायाः सांस्कृतिककार्यक्रमाणां च आयोजनमासीत्। कार्यक्रमस्य मङ्गलारम्भः गोसूक्तेन अभवत्। तदनन्तरं दशदिवसीय-संस्कृतसम्भाषणशिबिरस्य प्रात्यक्षिकं जातम्। मुख्यवक्तारूपेण आगतः संस्कृतभारत्याः अखिलभारतीयसङ्घटनमन्त्री मा. श्रीशः देवपूजारीजी उक्तवान् यत् केवलं भौतिकविकासः न परन्तु व्यक्तित्वविकासः अपेक्षते। भूतानदेशे जीडीपी न परन्तु हेप्पीनेस इन्डेक्स् दृश्यते। बालीद्वीपे दुराचारस्य न्यूनता अस्ति यतो हि विद्यालयस्य अभ्यासक्रमे रामायनमहाभारतादिनां संस्कारवर्धकानि चरितानि पाठ्यन्ते। मुख्यातिथिः केन्द्रीयमन्त्री डॉ. मनसुखमांडविया अवदत् यत् विश्वजनाः संस्कृतोन्मुखाः जायमानाः सन्ति। एषा भाषा विज्ञानिकी अस्ति अपि च जीवनमूल्यवर्धिनी अस्ति। अध्यक्षत्वेन भाषमाणः परमात्मनन्दसरस्वतीजी उक्तवान् यत् मानवजीवनस्य मूल्यवर्धनस्य कार्यं संस्कृतम् एव करोति। आन्तरिकविकासाय संस्कृतभाषा आवश्यकी अस्ति। गीर्वाणभाषायाः विकासाय राज्याश्रयः अपि आवश्यकः भवति।

प्रेरकोद्बोधनानन्तरं विविधाभिः संस्थाभिः नृत्य-सङ्गीत-नाटकादिनां प्रदर्शनमभवत्। कर्णभारनाटकं, नृत्यगीतानि, गरबागीतानि, केरलराज्यस्य परम्परागतकलाः, रोपमलखम-योगासनं, संस्कृतविज्ञापननाटकं, प्राचीनवाद्ययन्त्राणां सुस्वरवादनम् इत्यादिभिः कार्यक्रमैः प्रेक्षकाणां मनांसि प्रफुल्लितानि जातानि।

अद्यतनवार्ता

भारतम्

विश्वम्