Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

स्पेनदेशे कलाकाराणां एकया संस्थया  कलाविकासाय अन्ताराष्ट्रियकार्यक्रमः आयोजितः आसीत् । एतस्मिन् कार्यक्रमे षड्विंशतिदेशानां कलाज्ञाः भागमवहन्। अस्मिन् कार्यक्रमे भारतस्य एकः कलाकारः चितः। गुजरातस्थः अयं कलाकारः दिव्येश-वारा रङ्गवल्लीकलाकारः अस्ति। समग्रे देशे सः स्वकार्यार्थं प्रख्यातः अस्ति। अस्मिन् कार्यक्रमे तेन योगस्य सप्तचक्राणां रङ्गवल्ली रचिता। तस्येदं मौलिकं कार्यं सर्वैः प्रशंसितम्। दिव्येशस्य कथनानुसारं अस्मिन् मासे एव योगदिवसस्य आचरणं भवति। योगः ध्यानं च भारतस्य अभिज्ञानमस्ति। चक्रसाधना यौगिकक्रियायां महत्त्वपूर्णं वर्तते अतः सः शास्त्रेषु वर्णितानां चक्राणां रङ्गवल्लीं रचयितुं निश्चितवान्।

अद्यतनवार्ता

भारतम्

विश्वम्