Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

छत्तीसगढे ईसाईधर्मान्तरणस्य कार्यं बहुवर्षेभ्यः प्रचलति, तस्य मुख्यं लक्ष्यं वनवासिसमाजस्य जनाः एव सन्ति। अद्यत्वे आदिवासीसमाजः अपि ईसाईधर्मान्तरणस्य विरुद्धं आन्दोलनं विरोधं च कुर्वन् अस्ति ।

नारायणपुरमण्डलस्य एड्काग्रामे एतस्मिन् विषये द्वन्द्वः अपि अभवत्। धर्मान्तरिता: ईसाईजना: वनवासिजनानाम् उपरि आक्रमणम् अकुर्वन् इति आरोपः अस्ति। अस्मिन् विषये पीडिताः छत्तीसगढस्य राज्यपालं प्रति पत्रं लिखित्वा विषयस्य सूचनां दत्तवन्तः।

अस्मिन् पत्रे आरोपः कृतः यत् एड्कापञ्चायतस्य नवधर्मान्तरिताः ईसाईजनाः वनवासिसमाजस्य जनानां उपरि यष्टिदण्डैः तीक्ष्णशस्त्रैः च आक्रमणं कृतवन्तः। केचन ईसाई-पादरी-जनाः जनसमूहस्य नेतृत्वं कुर्वन्ति स्म इति आरोपः कृतः अस्ति । आहताः नारायणपुरजनपदस्य चिकित्सालये उपचाराधीनाः सन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्