Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

तुर्की-सीरिया-देशयोः भूकम्पेन एतावता आहत्य ११,४१६ जनाः मृताः । आहतानां संख्या ४० सहस्राधिकं वर्तते। उभयोः देशयोः साहाय्यार्थं सप्ततितः अधिकाः देशाः अग्रे आगताः सन्ति । भारतं 'ऑपरेशन दोस्त' इत्यस्य अन्तर्गतं साहाय्यं प्रेषयत् अस्ति। वस्तुतः तुर्की-हिन्दी-भाषयोः 'दोस्त' इति शब्दस्य प्रयोगः भवति यस्य अर्थ: मित्रम् इति।

भूकम्पपीडितदेशयोः हिमपातवृष्ट्या अत्यधिकेन शैत्येन च उद्धारकार्यं प्रभावितम् अभवत्। संयुक्तराष्ट्रसङ्घेन उक्तं यत् अस्यां परिस्थित्याम् आपत्कालीनसेवादलानां उद्धारकार्ये बहु कष्टं भवति। 

अद्यतनवार्ता

भारतम्

विश्वम्