Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लोकसभानिर्वाचनकाले पश्चिमबङ्गदेशे पुनः विधिशासनस्य उल्लङ्घनं जातमस्ति। प्रवर्तननिदेशालयस्य (ईडी) अनन्तरं शनिवासरे पूर्वमेदिनीपुरस्य भूपतिनगरे एनआईए-अधिकारिणां दलस्य उपरि आक्रमणं जातम्। घटनायामस्यां द्वौ अधिकारिणौ घातितौ, एन.आइ.ए इत्यनेन द्वौ जनौ गृहीतौ। आक्रमणस्यानन्तरं मुख्यमन्त्री ममता बनर्जी एन.आइ.ए इत्यस्यान्वेषणस्य विषये प्रश्नं कृत्वा उक्तवती यत् एते जनाः स्थानीयपुलिसदलं न सूचयित्वा मध्यरात्रौ किमर्थं गच्छन्ति? ते निर्वाचनात् पूर्वं अस्माकं सर्वान् कार्यकर्तॄन् गृहीतुं इच्छन्ति। अधिकारिणं वक्तव्यानुसारं भूपतिनगरविस्फोटप्रकरणे प्रतिकारे आक्रमणे सत्यपि अस्माकं दलेन प्रमुखौ षड्यंत्रकारिणौ गृहीतौ। एतस्मिन् समये जनसमूहेन एन.आई.ए.दलस्य उपरि इष्टिकाः, शिलाः च प्रक्षिप्ताः इति कथ्यते । अधुना स्थितिः नियन्त्रणे अस्ति। ममता आक्रमणस्य विषये ग्रामजनानां रक्षणं कृत्वा आक्रमणम् आत्मरक्षा इति उक्तवती।

अद्यतनवार्ता

भारतम्

विश्वम्