Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पुलवामायां आतङ्क्याक्रमणस्य प्रतिकारः अस्माकं वायुसेनया स्वीकृतम्। अत्यन्तं गुप्ततया दिनेभ्यः एतस्य प्रत्याक्रमणस्य आयोजनं चलति स्म। अस्माकं भारतीयवायुसेनायाः मुख्यविमानेषु मिराज् इति नाम्नैः युद्धविमानैः आक्रमणमिदं सफलं जातम्। अस्माकं वायुसेनया अतिप्रभाते पाकिस्तान-अधिकृत-कश्मीरविस्तारस्य बालाकोटविस्तारे अन्यत्र च आक्रमणं कृत्वा जैश-ए-मोहम्मदसङ्घटनस्य मुख्यं केन्द्रं नष्टं कृतम्। इदं कथ्यते यत् तस्मिन् आतङ्किकेन्द्रे त्रिशताधिकाः आतङ्किनः आसन्।

अद्यतनवार्ता

भारतम्

विश्वम्