देहलीनगरे यातायातनियमानां वर्धमानम् उल्लङ्घनं निवारयितुं यातायातारक्षकदलेन महती योजना कल्पिता अस्ति यस्मिन् देहलीजनाः रक्तसंकेतान् भङ्गं कुरुतां, विपरितदिशि गन्तॄणां, असुरक्षितयानचालयितॄणां चित्रं गृहीत्वा तेभ्य: सम्यक् बोधपाठं दातुं शक्नुवन्ति अपि च ५०,००० रुप्यकपर्यन्तं पुरस्कारं च प्राप्तुं शक्नुवन्ति। देहलीयातायातपुलिसदलद्वारा यातायात-प्रहारी-एप् प्रारब्धमस्ति यस्मिन् जनाः यातायात-नियम-भङ्गं कुर्वतां विषये आवेदनं कर्तुं शक्नुवन्ति ।
कोऽपि एण्ड्रॉयड् स्मार्टफोन-उपयोक्ता Google Play Store तः Traffic Prahari इति एप् डाउनलोड् कर्तुं शक्नोति । तदनन्तरं यदा कदापि कोऽपि यातायातनियमान् उल्लङ्घयति यथा रक्तसंकेतान् भङ्गं करोति, विपरितदिशि वाहनचालनं करोति, असुरक्षितरूपेण वाहनचालनं वा करोति तदा ते एप्-द्वारा चित्रं चलचित्रं च स्वीकृत्य उपारोपणं कर्तुं शक्नुवन्ति एतेन सह समयदिनाङ्कादिनां विवरणमपि लेखनीयं भवति।