Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कोरानोविषाणोः विषचक्रं शनैः शनैः समग्रं विश्वं कवलीकुर्वन् अस्ति । प्रतिदिनं नैकाः जनाः एतस्य भयङ्करविषाणोः प्रभावे आगच्छन्तः सन्ति । भारते अपि एतस्य प्रभावः वर्धमानः अस्ति । समस्यायाः निराकरणाय भारतसर्वकारस्य सर्वेऽपि अधिकारिणः, चिकित्सकाः, स्वास्थ्यविभागः, आरक्षिदल:, औषधवितरकाः नैके च भारतीयाः प्रयत्नरताः सन्ति । इदानीं यावत् लक्षाधिकानां जनानां परीक्षणम् अभवत् अपि च समग्रे भारते विषाणुप्रभावे त्रिशताधिकाः जनाः आगताः सन्ति, सप्तानां मृत्युः अपि अभवत् । विषाणोः व्यापपरिहाराय इदानीं यावत् चतुर्दश राज्येषु आंशिकं पूर्णतः वा लोकडाउन उद्घोषणा जाता अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्