Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रायशः यदा बालकाः चापल्यं कुर्वन्ति तदा परिवारजनाः वदन्ति यत् आरक्षकाः नेष्यन्ति इति परन्तु अहमदाबादनगरे त्रयः बालकाः स्वस्य स्वस्य रक्षितधनस्य मञ्जूषां आदाय स्वयमेव आरक्षकालयं प्राप्तवन्तः अधिकारिणम् उक्तवन्तः यत् धनमिदं दीनेभ्यः वितरन्तु ।

अहमदाबादनाग्रस्य आरक्षकालयाधिकारिणा प्रतीकगोहिलेनोक्तं यत् वर्तमानपरिस्थित्योपरि किञ्चन चलच्चित्रं दृष्ट्वा प्रभाविताः बालकाः धनमिदं दत्तवन्तः । बालकैः उक्तं यत् अधुना धनस्य आवश्यकता नास्ति । यदा धनराशेः गणना कृता तदा आहत्य ५५०० रुप्यकाणि मञ्जूषायां आसन् । अधिकारिणा उक्तं यत् एतेन धनेन आवश्यकवस्तूनाः वितरणं भविष्यति ।

अद्यतनवार्ता

भारतम्

विश्वम्