Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कोंग्रेसदलः बिहारराज्ये जन-आकांशा-रैली माध्यमेन स्वस्य प्रभावं दृढीकर्तुं प्रयत्नरतः अस्ति। एतदर्थमेव दलेन त्रिंशत् वर्षाणामनन्तरम् अद्य पटनानगरस्य गांधी-क्रीडाङ्गणे समागमः कारितः अस्ति। एतेन व्याजेन कोंग्रेसदलः स्वशक्तिप्रदर्शनं करोति। एतस्मिन् महासङ्घे भाजपादलं विहाय सर्वेषामपि दलानां प्रतिनिधित्वं दृश्यते। मध्यप्रदेशस्य मुख्यमन्त्रिणा कमलनाथेन उक्तं यत् पक्षेण कृषकेभ्यः दत्तः ऋणमुक्तेः सङ्लक्पः परिपालितः । मोदिसर्वकारेण गङ्गाशुद्धतायाः सङ्कल्पः कृतः आसीत् परन्तु वित्तकोषाणां शुद्धता अभवत् । छत्तीसगढस्य मुख्यमन्त्रिणा भूपेशबधेलेनोक्तं यत् मम राज्यस्य कृषिवलाः राहुलस्य कारणात् प्रसन्नाः सन्ति। राहुलः अर्थात् सङ्कल्पस्य परिपालनस्य आश्वासनम्। शरदयादवेनोक्तं यत् यस्य संविधानस्य कृते अस्माभिः बलिदानं दत्तमस्ति तत् अद्यत्वे सङ्कटे अस्ति। देशे अघोषित-आपत्कालः उद्घोषितः अस्ति। तेजस्वियादवेनोक्तं यत् राहुलगान्धि प्रधानमन्त्री भवितुं सक्षमः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्