Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्यत्वे गोवाप्रदेशस्य समुद्रतटे मनोहरपर्रिकरस्य विकल्पस्य चर्चा जायमाना अस्ति। कर्करोगेण पीडितस्य भाजपादलस्य गोवाप्रदेशस्य मुख्यमन्त्रिणः स्वास्थ्यं विकटमस्ति । दलद्वारा तस्य विकल्पस्य संशोधनमारब्धमस्ति। मनोहरस्य अनुपस्थितौ दायित्त्वं कस्मै दातव्यम् इति प्रश्नः कठिनः एव । अन्यस्य एकस्य धारासभ्यस्य निधनमपि जातम् अस्ति । एतस्यां परिस्थितौ कोंगेसदलेन भाजपा-सर्वकारः शासनाय समर्थः नास्ति इति राज्यपालसमक्षं निवेदितमस्ति। एतत् सर्वविदितमस्ति यत् पूर्वे मनोहरः केन्द्रे संरक्षणमन्त्रिपदे आरूढः आसीत् । राफेल-विनिमयः तस्य कार्यकालेऽएव जातमस्ति।  गोवासर्वकारस्य एकस्य मन्त्रिणः ध्वनिमुद्रणं प्रकाशितं जातमासीत् तत्र श्रूयते यत् राफेलविनिमयस्य सञ्चिकाः मनोहरस्य शयनकक्षे अस्ति। एतस्य प्रकाशनं कृत्वा एतस्य प्रकरणस्य समीक्षां कर्तुं निवेदनं कृतमस्ति। निर्वाचनसमये प्रकरणमिदं वातावरणं ऊष्णीकरोति।

अद्यतनवार्ता

भारतम्

विश्वम्