Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

वित्तमन्त्री पीयूषगोयलः अद्य लोकसभायाम् अस्य वर्षस्य वित्तसङ्कल्पनापत्रं प्रस्तुतवान्। एतेन वित्तसङ्कल्पनापत्रेण मध्यमवर्गीयाः लाभान्विताः भविष्यन्ति। वेतनधारिणां कृषकाणां महिलानां च कृते अत्र विशेषलाभाः सन्ति । एतस्य वित्तसङ्कल्पनापत्रस्य मुख्यांशाः इत्थमस्ति।

  • प्रधानमन्त्री-किसान-योजनायां प्रतिवर्षं ६००० रूप्यकाणि कृषकाणां वित्तकोशलेखायां गमिष्यन्ति ।
  • वेतनभोगी-कर्मचारिजनानां कृते मानक-व्ययकलनं चत्वारिंशत्-सहस्रतः पञ्चाशत्-सहस्ररूप्यकाणि अभवत्।
  • आयकर-प्रत्यावर्तनपत्रे चतुर्विंशतिः होरासु कार्यं भविष्यति।
  • २०३०-वर्षं यावत् अर्थव्यवस्थायाः द्विगुणीकरणाय दश-सूत्रीय-कार्यक्रमस्य उल्लेखं विदधता वित्तमन्त्रिणा उक्तं यत् आगामि पञ्चवर्षेषु देशस्य अर्थव्यवस्था पञ्च-खर्बुद-डोलरमिता भविष्यति।
  • लघुकृषकानां कृते असङ्घठितक्षेत्रस्य-श्रमिकाणां कृते, लघु-सीमान्त-कृषकाणां च सहायतायै नैकानां योजनानां घोषणा अभवत्।
  • ’प्रधानमन्त्री-किसान-सम्मान-निधि नाम्ना अस्याः योजनायाः माध्यमेन सहायताराशिः प्रत्यक्षरूपेण कृषकेभ्यः प्रेषयिष्यते।
  • प्रधानमन्त्री-श्रम-योगि-मानधन-कार्यक्रमस्य उल्लेखं कृत्वा वित्तमन्त्री अवदत् यत् एतेन असङ्घटित-क्षेत्रस्य श्रमिकाः षष्टि-वर्षाणाम् अनन्तरं सहस्ररूप्यकाणां मासिक-निवृत्तिवेतनम् लप्स्यन्ते ।
  • वेतनभोगि-कर्मचारिजनानां कृते मानक-व्ययकलनं चत्वारिंशत् सहस्रतः पञ्चाशत्-सहस्ररूप्यकाणि अभवत्।
  • कृषि-क्षेत्र-सम्बद्ध-समस्यायां कृषकाणां धान्यस्य न्यूनतम-समर्थन-मूल्यं संशोधितमस्ति।
  • २०३० यावत् अर्थव्यवस्थायाः द्विगुणीकरणाय दशसूत्रीयकार्यक्रमस्यान्तर्गतं पञ्चवर्षेषु देशस्य अर्थव्यवस्था पञ्चखर्बुद-डोलरमिता भविष्यति। ततः शनैः शनैः विकासः भविष्यति।
  • आयुष्यमान-भारत-योजनायाः अन्तर्गतं सर्वेभ्यः निःशुल्क-स्वास्थ्य-व्यवस्था अपि च व्यापक-स्वास्थ्य-प्रणाल्याः लक्ष्यं प्रापयिष्यते ।

अद्यतनवार्ता

भारतम्

विश्वम्