Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

ऑस्ट्रेलियाया: ब्रिसबेननगरे राष्ट्रमण्डल-लक्ष्यवेधनस्पर्धायाम् अद्य भुशुण्डिका-लक्ष्यसन्धाने भारतीयपुरुष-क्रीडकै: दशमीटरदूरतान्विते द्वन्द्वे सर्वाणि अपि पदकानि हस्तगतानि कृतानि| एतेषु क्रीडकेषु शाहजर रिजवी, ओमकारसिंह:, जीतुरोयश्च क्रमेण स्वर्ण-रजत-कांस्यपदकानि अर्जितवन्त:| दशमीटरदूरतान्विते महिलानां द्वन्द्वे पूजाघाटकर: स्वर्णपदकं जीतवती| तत्रैव मुद्गिल: रजतचन्द्रकं प्राप्तवती| एतत् पूर्वं हीना सिद्धु अपि स्वर्णपदकं प्राप्य भारतस्य गौरवं वर्धितवती आसीत्|
 

अद्यतनवार्ता

भारतम्

विश्वम्