Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विश्वस्य शक्तिमत्सु देशेषु अन्यतमः अमेरिकादेशः, यः अवकाशे अपि स्वसामर्थ्यं प्रदर्शितवान् अस्ति तत्रैव उत्कृष्टतमायां वैदकीयव्यवस्थायां सत्यामपि कोरोनाविषाणो: प्रकोपः वर्धमान: अस्ति । तत्र लोक्डाउन इति एकान्तवासस्य निर्देशस्यानन्तरमपि  सङ्कमितानां सङ्ख्या सततं वर्धमाना अस्ति । गतदिने केवलं चतुर्विंशति-होरासु एव उपद्विसहस्रजनाः मृताः । समग्रे विश्वे क्रैस्ताः स्वगृहे एव इस्टर-उत्सवस्याचरणं कुर्वन्ति परन्तु अमेरिका देशे तु सर्वत्र मृत्युशोकस्याचरणं जायमानम् अस्ति । अधुना यावत् अमेरिकादेशे २०,००० विंशति-सहस्राधिकाः जनाः कालग्रस्ताः जाताः  सन्ति ।
जाग्रत भारतीयाः !

गृहवासः एव वरम् ।

किम् इच्छन्ति भवन्तः ?

वस्त्रबन्धनं मुखे ? सम्पूर्ण-शरीरे वा ?

अद्यतनवार्ता

भारतम्

विश्वम्