Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्रिणा नरेन्द्रमोदिना ’कोरोना’विषाणोः राष्ट्रिय-आपत्तिम् अभिलक्ष्य राष्ट्राय सम्बोधनं कृतम् । देशं सम्बोधयन् तेनोक्तं यत् आगामि-रविवासरे द्वाविंशतिदिनाङ्के प्रभाते सप्तवादनात् रात्रौ नववादनपर्यन्तं देशजनाः जननिषेधस्य पालनं कुर्युः । तेन महासङ्कटं निवारयितुं कृतसङ्कल्पेभ्यः चिकित्त्सकेभ्यः परिचारकेभ्यः सर्वकारीयकर्मचारिभ्यः च कृतज्ञता अपि प्रकटीकृता ।

प्रधानमन्त्रिणः उद्बोधनांशाः

  1. अधुना विश्वे महत् सङ्कटं प्रचलति ।
  2. कोरोनो-विषाणुकारणात् मानवजातिः सङ्कटे आपतिता ।
  3. सर्वेऽपि देशवासिनः जागरुकाः भवन्तु ।
  4. देशवासिभ्यः सप्ताहस्य समयस्य आवश्यकता अस्ति ।
  5. कोरोनाविषाणोः औषधस्य निर्माणं संशोधनं वा इदानीं यावत् नास्ति ।
  6. विश्वयुद्धे अपि एतादृशः प्रभावः न आसीत् ।
  7. केनापि एवं न विचारणीयं यत् एतस्य प्रभावः सवस्य उपरि न भविष्यति ।
  8. सङ्कल्पः संयमः च एतस्य मार्गः अस्ति ।
  9. बहिर्गमने संयमः अपेक्षते ।
  10. सर्वे केन्द्रसर्वकारस्य राज्यसर्वकारस्य निर्देशानां पालनं कुर्युः ।
  11. भारतसर्वकारः अहर्निशं एतस्य निरीक्षणं कुर्वन्नस्ति ।
  12. २२/०३/२० दिनाङ्के जन-निषेधः । जननिषेधः लोकेन लोकाय च ।
  13. देशवासिभ्यः समर्थनस्य आशा ।
  14. विविधाः संस्थाः एतस्मिन् सहयोगं कुर्युः ।
  15. देशस्य अर्थतन्त्रे एतस्य व्यापकः प्रभावः अस्ति ।
  16. खाद्यवस्तूनि पर्याप्तमात्रायां उपलभ्यन्ते अतः व्यग्राः चिन्तिताः न भवन्तु ।
  17. अकारणं बहिर्गमनं न करणीय़म् ।
  18. सर्वकारेण कोविद-१९ टास्क-फोर्स इत्यस्य रचना कृता अस्ति ।
  19. रविवासरे सायं पञ्चवादने पञ्चनिमेषपर्यन्तं सर्वेऽपि भारतीयाः स्वगृहद्वारे स्थित्वा करतालेन घण्टानादेन वा कृतसङ्कल्प-कार्यरत-चिकित्सकादिनां कृते अभिवादनं धन्यवादज्ञापनं च कुर्वन्तु ।

अद्यतनवार्ता

भारतम्

विश्वम्