Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य रात्रौ वायु इति नाम्नः चक्रवातः देशस्य पश्चिमक्षेत्रं गुजरातस्य तटीयविस्तारं उत्पाटयिष्यति । आपदः निवारणाय सर्वकारीयविभागाः दिनत्रयात् आदिनं प्रयत्नरताः सन्ति । आपत्कालीनपरिस्थितौ सहायतार्थं राष्ट्रिय-आपदा-प्रतिक्रियाबलस्य सेनायाः च नैके गणाः नैकेषु जनपदेषु कार्यरताः सन्ति । सर्वकारेण दिनद्वये २.१५ लक्षजनानां स्थानान्तरं कारितमस्ति ।

प्राप्तविवरणानुसारं चक्रवातस्य दुष्प्रभावः दीव-गीरसोमनाथ-पोरबन्दर-द्वारका-कच्छ-भूज-सहितेषु नैकेषु प्रदेशेषु भविष्यति । प्रवर्तमानपरिस्थित्यनुसारं चक्रवातः वेरावळनगरसमीपे अस्ति तच्च प्रभाते अष्टवादने तटस्पर्शं करिष्यति । अतिवेगवता चक्रवातवायुना अतिवृष्ट्या च सामान्यजनजीवनं दुष्प्रभावितं भविष्यति ।
Photo : windy.com

अद्यतनवार्ता

भारतम्

विश्वम्