Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आपत्सु सर्वेषां परीक्षा भवति । समग्रविश्वं अद्यत्वे कोरोना-विषाणोः विरुद्धं  प्रयत्नरतम् अस्ति । नैके जनाः मृताः सन्ति । सहस्रशः जनाः मृत्युजीवनयोः मध्ये दोलायन्तः सन्ति । प्रतिदिनं प्रभावितानां मृतानाञ्च वर्धमानां सङ्ख्यां दृष्ट्वा हृदयं द्रवीभवति । परन्तु अस्यामेव विकटपरिस्थितौ मनः आश्वासयन्ति काश्चन घटनाः उदाहरणानि च ।

महाराष्ट्रस्य पूणे इति नगरस्य कश्चन नायडू इति रुग्णालयः । तत्र कार्यं कुर्वती परिचारिका छाया । प्रधानमन्त्रिकार्यालयतः नरेन्द्रमोदी तया सह वार्तालापं करोति । “नमस्ते ! सिस्टर छाया“ । देशस्य प्रधानसेवकः यदा सामान्यपरिचारिकां दूरवाणीं करोति, तस्य स्वास्थ्यादिविषये पृच्छति तर्हि सौभाग्यस्य विषयः । आदिनं कार्यं कुर्वन् स्वस्य देशस्य सामान्य योद्धा किं चिन्तयति इति तस्य मनोभावं स्वयमेव ज्ञातव्यम्, एतत् प्रजावत्सलस्य प्रधानमन्त्रिणः एव लक्षणम् । परिचारिक छाया प्रधानमन्त्रिणा सह कार्य-समस्यादिनां विषये वार्तालापं करोति, स्वकार्यबद्धतां प्रति अपि आश्वासयति ।

अन्यत् एकम् उदाहरणम् प्रशासनिक-अधिकारिणी जयंतीरविमहोदया । गुजराते प्रशासनिकसेवायां अधस्तनस्तरात् उच्चस्थानपर्यन्तं कर्मणा निष्ठया च स्थानं प्राप्तवती अस्ति शान्त स्वभावा सङ्गीतज्ञा परन्तु कार्यकठोरा । शिस्त-संस्कृतिप्रिया । सम्पूर्णपरिवारः संस्कृति-वाहकः । पूर्वे यदा गोधराकांडः अभवत् तदा जयंतिरवि गोधरानगरस्य समाहर्तारूपेण नीरक्षीरविवेकं प्रदर्शयन्ती कार्यं कुर्वती आसीत् । स्वदक्षतया एव सा तत्पदात् आरोग्यसचीवपदपर्यन्तं प्रजाकार्याणि कुर्वती अस्ति ।  अद्यत्वे कोरोना-सङ्क्रमणकाले अपि धैर्येण आयोजनकौशलद्वारा च अहर्निशं कार्यं कुर्वती अन्येभ्यः अपि निष्ठया कार्यं कर्तुं प्रेरयन्ती अस्ति ।

कोरोनासङ्क्रमणस्य भयं तु सर्वेषां भवति । तथापि स्वक्षेत्रे कार्यं कुर्वन्तः सहस्रशः जनाः स्वस्य जीवनस्य विषये न चिन्तयन्तः अन्येषां स्वास्थ्यार्थं प्रयत्नरताः सन्ति । कोरोनाविषाणु-संक्रमितानां परीक्षणं कर्तुं भारते अत्याधुनिकी व्यवस्था नास्ति परन्तु पूणे नगरस्य मायलेब-डिस्कवरी-संशोधनसमवायस्य युव-विषाणुज्ञैः विषाणुसामग्री निर्मितम् अस्ति । एतस्य गणस्य मुख्या अस्ति मीनलभोसले । गर्भिण्याः तस्याः अन्तिमदिनानि गच्छन्ति स्म । नवमे मासे अपि कृतसङ्कल्पा सा अन्तिमक्षणपर्यन्तं परीक्षणमञ्जूषां रचयन्ती आसीत् येन विषाणुप्रभावितानां संज्ञानं सरलतया भवेत् । एतस्य व्यावसायिक-उत्पादन-विक्रयस्य आज्ञा भारतसर्वकारद्वारा प्राप्तम् अस्ति  एतस्य विशेषता अस्ति यत् केवलं होराद्वये एव कोरोनासङ्क्रमणस्य निश्चयः भवति ।

अद्यतनवार्ता

भारतम्

विश्वम्