Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लोकसभानिर्वाचनं २०२४ इत्यस्य दृढप्रचारः जायमान: अस्ति । द्वयोः चरणयोः अनन्तरं अधुना तृतीयचरणस्य मतदानं ७ दिनाङ्के भविष्यति। अस्मात् पूर्वं सर्वेषां राजनैतिकदलानां नेतारः स्वस्वपक्षाय प्रचारं कुर्वन्त: स्वविरोधिनां उपरि आक्रमणं कुर्वन्त: सन्ति। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे गुजरातस्य जूनागढे अवदत् यत् कोङ्ग्रेसस्य कार्यसूच्यां द्वितीयक्रम सीएए अस्ति। अस्माकं समीपस्थेषु देशेषु ये जनाः निवसन्ति। तेषां दोषः अस्ति यत् ते हिन्दु-जैन-बौद्ध-ईसाई-पारसीधर्मावलभिन: सन्ति, ते तत्र उत्पीडिताः भवन्ति तिरस्क्रियन्ते च। तेषां केवलम् एकः एव आश्रयः अस्ति – मातुः भारत्याः अङ्कः। ते कुत्र गमिष्यन्ति ? मया तेषां कृते नागरिकतानियमः आनीत:, परन्तु ते (कोङ्ग्रेसः) वदन्ति यत् ते अपि तस्य उन्मूलनं करिष्यन्ति। अहं कोङ्ग्रेसपक्षाय आह्वानं करोमि – भवन्त: न अनुच्छेदं ३७० पुनः स्थापयितुं शक्नुवन्ति, न च CAA-इत्यस्य उन्मूलनं कर्तुं शक्नुवन्ति” इति।

अद्यतनवार्ता

भारतम्

विश्वम्