Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रराजधानीदिल्लीसहितं सम्पूर्णे उत्तरभारते तप्ततापस्य प्रकोप: निरन्तरं जायमान: अस्ति। उष्णपराह्णे जनाः स्वगृहात् निर्गन्तुं कष्टं अनुभवन्ति। रात्रौ अपि तापमानवृद्ध्या जनाः उद्विग्नमना: सञ्जाता: सन्ति। तस्मिन् एव काले अधुना जलवायुविभागेन दक्षिणओडिशा-कर्नाटक-केरल-तेलङ्गान-बिहार-उत्तरप्रदेशराज्येषु चक्रवातस्य सम्भावना प्रकटिता अस्ति। एतेन सह मध्यमवृष्ट्या: च वज्रपातस्य च पूर्वानुमानं कृतम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्