Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातस्य अग्रगण्य: संस्कृतविद्वान् डॉ. गजेन्द्रपण्डामहोदयस्य हृदयाघातेन निधनं जातम्। महोदय: अहमदाबादनगरस्य एल.डी.आर्ट्समहाविद्यालये प्राध्यापक: आसीत्। स: संस्कृतक्षेत्रे अतीव सम्माननीय: आसीत्। सर्वदा स्मितवदन:, संस्कृतकुटुम्बनिर्माता, सुमधुरवाग्मी, व्यवहारकुशल:, संस्कृतसम्भाषणदक्ष:, उत्तम: संस्कृतसम्भाषणशिक्षक:, देशविदेशेषु संस्कृतपताकाप्रसारक:,सकारात्मकविचारै: पूत:, गुणगणविभूषित:, अजातशत्रु: इत्यादिभि: गुणै: स: संस्कृतप्राध्यापकेषु छात्रेषु च प्रख्यात: आदरणीय: च आसीत्।  डो. गजेन्द्रपण्डामहोदयेन एकलक्षजनान् संस्कृतं पाठयितुं प्रतिज्ञा कृता आसीत्। अस्मिन् लक्ष्ये प्रायश: २२ देशेषु प्रवासं कृत्वा स: नितरां संस्कृतपठनपाठनकार्ये संलग्न: आसीत्। तस्य कार्यै: स: राष्ट्रपतिसम्माननेन अपि विभूषित: आसीत्। स्वपुत्रौ अपि संस्कृतक्षेत्रे कार्यं कर्तुं प्रेरितवान्। स्वामिनारायणसम्प्रदायस्य नैकान् साधून् अपि स: संस्कृतसम्भाषणं पाठयन् आसीत्। तस्य कृते श्रद्धाञ्जलिसभा अहमदाबादनगरे सोमवासरे सायं आयोजिता अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्