Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देशे तप्ततापस्य प्रभावः निरन्तरं वर्तते। जलवायुविभागेन अद्य छत्तीसगढसहितेषु देशस्य ७ राज्येषु तापतरङ्गस्य सचेतना प्रसारिता अस्ति। यस्मिन् पश्चिमबङ्गः, ओडिशा, तमिलनाडु, आन्ध्रप्रदेशः, कर्नाटकः, तेलङ्गाना च सन्ति । दिनद्वयानन्तरं मध्यप्रदेशस्य राजस्थानस्य च केषुचित् क्षेत्रेषु तापतरङ्गस्य प्रभावः वर्धिष्यते। देशस्य अनेकनगरेषु गतदिनं यावत् तापतरङ्गस्य स्थितिः वर्तते। एकस्मिन् शोधकार्ये प्रतिपादितं यत् निरन्तरं तापतरङ्गैः मृत्यो: सम्भावना वर्धते। तदनुसारं यदि सततं दिनद्वयात् अधिकं उष्णवायो: प्रभाव: भवति चेत् तस्मात् मृत्यो: सम्भावना १४.७ % वर्धते ।


 

अद्यतनवार्ता

भारतम्

विश्वम्