अहमदाबादनगरस्य विमानदुर्घटनानन्तरं बहव्य: घटनाः प्रकाशमाना: भवन्ति यत्र विमानस्य पुनरागमनं वा आपत्कालीन-अवरोहणं वा कर्तव्यम् भवति । अस्मिन् क्रमे पुनश्च चेन्नैनगरं प्रति गच्छत: एयर इण्डिया-विमानस्य (AI 639)चालककक्षे दहनगन्धकारणेन मुम्बई-नगरं पुन: आगतम्, आपत्कालीनम् अवरोहणं च अभवत् ।
एयर इण्डिया-प्रवक्ता अवदत् यत्, " गतदिने विमानसङ्ख्या एआइ ६३९ मुम्बईतः चेन्नैनगरं प्रति गच्छत् आसीत् तदा चालककोष्ठे दहनगन्धस्य कारणात् पूर्व्वोपायार्थं प्रत्यागतम् । अस्माकं स्थलदलेन यात्रिकाणां विमानान्तरार्थं साहाय्य: कृत: । अस्मिन् काले यात्रिकाः कामपि समस्यां न प्राप्नुयुः इति विशेषसावधानी कृता।