Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भाजपादलस्य राष्ट्रियाध्यक्षेण प्रतिपादितं यत् स्वस्य सैनिकानां वीरगतेः प्रतिकारं स्वीकर्तृषु देशेषु अमेरिका-इझरायेलयोः पश्चात् भारतस्य क्रमः आगच्छति। इदानीं यावत् केवलं देशद्वयेन एतादृशः प्रतिकारः प्रदर्शितः अस्ति – अमेरिका इझरायेल च । पुलवामातङ्क्याक्रमणे चत्वारिंशदधिकाः वीरसैनिकाः आतङ्कविरुद्धं स्वप्राणानामाहूतिं दत्तवन्तः । एतस्य प्रतिकाररूपेण भारतेन दृढसङ्कल्पशक्तिं प्रदर्शयता पाकिस्तानस्थेषु आतङ्कस्रोतेषु आक्रमणं कृत्वा तानि नष्टानि । भारतेन विश्वे एतत् प्रदर्शितमस्ति यत् नरेन्द्रमोदी सादृशः कृतसङ्कल्पः नेता कर्तुं शक्नोति। आतङ्कवादिभिः सह वार्तालापं न परन्तु कठोरः प्रत्युत्तरमेव अपेक्षितमस्ति।  एकेन आङ्ग्लवार्तापत्रेण सह भाषमाणः अमितशाहः उक्तवान् यत् भारतं नरेन्द्रमोदिनः नेतृत्वे एव पञ्चवर्षेषु एव तृतीयम् आर्थिकं राष्ट्रं भवितुमर्हति। लोकसभानिर्वाचने भाजपादलस्य ऐतिहासिकः विजयः भविष्यति मोदी च पुनः प्रधानमन्त्री भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्