पाकिस्तानस्य अन्यत् लज्जाजनकं कार्यं प्रकाशितमस्ति। वस्तुतः बुधवासरे दिल्लीतः श्रीनगरं प्रति गच्छत: इण्डिगो-विमानस्य अग्रभाग: अश्मपातेन, प्रचण्डचक्रवातेन च दुर्घटनाग्रस्तं जातम्। इदानीं विमानस्य चालकः सर्वेषां रक्षणाय पाकिस्तानस्य लाहौरवायुयाननियन्त्रकस्य (ATC) सम्पर्कं कृत्वा पाकिस्तानस्य वायुक्षेत्रे प्रवेशस्य अनुमतिं याचितवान् परन्तु एटीसीद्वारा अनुमति: न प्राप्ता, येन २२७ यात्रिकाणां प्राणाः संकटापन्ना: जाता:। तदनु अन्ततः विमानचालकः विवेकपूर्वकं स्वकुशलतया च श्रीनगरविमानस्थानके विमानं सुरक्षिततया अवतारितवान्। टीएमसीदलस्य पञ्च सांसदाः अपि विमानयाने आसन्।