Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राजनीतौ कदा किं भविष्यति न कोऽपि ज्ञातुं शक्नोति । मध्यप्रदेशे महताकष्टेन कोंग्रेसदलेन सर्वकाररचना कृता । आरम्भात् एव कमलनाथस्य ज्योतिरादित्यस्य च मध्ये कलहः सर्वैः ज्ञातः अस्ति। अन्ततो गत्वा ज्योतिरादित्येन कोंग्रेसदलाय स्वस्य त्यागपत्रं समर्पितम् । त्यागपत्रे गतदिनस्य दिनाङ्कः उट्टङ्कितः अस्ति अतः ज्ञायते यत् गतदिने एव तेन दलत्यागस्य निर्णयः कृतः अस्ति । तेन सह तस्य विश्वस्ताः अष्टाविंशतिः विधायकाः अपि सन्ति । अद्य आदिनं भाजपादलस्य मुख्यैः सह एतेषां चर्चा जाता । कदाचित् भाजपादलप्रवेशात् ज्योतिरादित्यः सम्यक् पदमपि प्राप्नुयत् ।

अद्यतनवार्ता

भारतम्

विश्वम्