उपरितनवायुचक्रवातसञ्चारस्य कारणात् नैर्ऋत्यवृष्टे: आगमनात् पूर्वमपि राज्ये वर्षास्थितिः दृश्यते। सिन्धुसागरे निर्मितम् ऊर्ध्वमारुतं अद्य सायंकालं यावत् अवसादरूपेण परिणतुं शक्नोति। गोवा-कोङ्कण-समीपे सिन्धुसागरे एका व्यवस्था निर्मिता अस्ति। यदि एषा व्यवस्था प्रगच्छति तर्हि गुजरातस्य क्षेत्राणि अपि प्रभावितानि भविष्यन्ति। वर्तमानस्थितेः आधारेण चक्रवातस्य निर्माणस्य सम्भावना न्यूना इति स्काईमेट् द्वारा पूर्वानुमानमस्ति। जलवायुविभागेन गुजरातस्य १२ तः अधिकेषु जनपदेषु चक्रवातसञ्चारस्य कारणेन अद्यारभ्य ७ दिवसान् यावत् अत्यधिकवृष्टे: पूर्वानुमानं कृतमस्ति।





















