Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अहमदाबादस्य गौरवम् -   खुशाली-पुरोहितः 'सुपर-रेन्डनयोर्'  इति अतिदीर्घ-द्विचक्रिका-चालन-प्रतियोगितायां  विक्रमं स्थापितवती।  
सङ्कल्पस्य विकल्पः न भवति इति उक्तिं सार्थकं कृतवती गुजरातस्य लघ्वी बाला खुशाली पुरोहितः। नवदशतम-शतकात् रेन्डोनेयरींग इति एतस्याः प्रतियोगितायाः आरम्भः इटालीदेशात् अभवत्। अनन्तरं शनैः शनैः एषा स्पर्धा समग्रे विश्वे प्रसिद्धा जाता। एतस्यां स्पर्धायां २००, ३००, ४००, ६०० कि मी परिमितं यात्रा विभिन्नेषु स्तरेषु समापनीया भवति। सफलतापूर्वकं यात्रां पूर्णं करोति सः रेन्डनयोर् इति उपाधिना सम्मानितः भवति। खुशाली अहमदाबादतः डाकोर, वट्टपत्तनतः मोडासा, हिम्मतनगरतः शामळाजी, अहमदाबादतः पालनपुरं भूत्वा पुनः वट्टपत्तनम् इति चतुर्षु स्तबकेषु स्वयात्रां निर्धारितसमयात् पूर्वमेव समापितवती। केवलं द्वाविंशति-दिनेषु एव यात्रां समाप्य सा 'सुपर रेन्डनयोर्' इति उपाधिं प्राप्तवती। यात्रायां सा उष्णता, वाहनानां सम्मर्दः, जानुपीडा, शरीरवेदना, अनिद्रा, दुर्गमप्रदेशाः इति अनेकानां समस्यानां अनुभवं कृतवती।  

अद्यतनवार्ता

भारतम्

विश्वम्