Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पञ्जाबविश्वविद्यालयस्य मनोविज्ञानविभागेन सम्पूर्णे देशे जालपूट-आधरितं सर्वेक्षणं कृतम् यत्र द्वादश-राज्यानां नैके जनाः भागमवहन् । कोरोनाविषाणोः रक्षा-उपायान्तार्गत-लोक-डाउन-परिस्थितौ अहर्निशं गृहे एव तिष्ठतां जनानां मानसिकतायां किं परिवर्तनम् अभवत् इति ज्ञातुम् इदं सर्वेक्षणं कृतम् । सर्वेक्षणमिदं अप्रेलमासस्य पञ्चमदिनाङ्कतः नवदिनाङ्कपर्यन्तं कारितमासीत् ।

सर्वेक्षणस्य परिणामांशाः

  • वृद्धाः अधिकप्रसन्नाः सन्ति । स्वपरिवारस्य स्नेहवर्धनकारणात् स्वास्थ्यम् अपि सम्यक् भवति ।
  • आपत्काले अपि जनाः मनसा भावनात्मकतया च दृढाः सन्ति ।
  • कोरोना विरुद्धं सर्वेषां उत्साहः यथायोग्यम् अस्ति ।
  • जनाः स्वस्य उद्विग्नतां न्यूनीकर्तुं योग-आसन-व्यायामादिनाम् आरम्भं कुर्वन्तः सन्ति ।
  • सामान्यदिवसेषु परिवाराय समयं दातुम् असमर्थाः जनाः अद्यत्वे परिवाराय अधिकं समयं यच्छन्तः सन्ति ।
  • आदिनं गृहे तिष्ठद्भिः जनैः स्वस्य स्थास्थ्याय अपि ध्यानं दीयते ।
  • पारिवारिकसम्बन्धस्य नूतनभावनया उद्विग्नता-चिन्ता-कार्यभारेभ्यः उत्पन्नं भयं अपगगतमस्ति ।
  • जनाः रचनात्मकप्रवृत्तये समययापनं कुर्वन्ति 
  • कोरोनाविरुद्धं जनानाम् उत्साहः सम्यक् अस्ति । तेषु विश्वासः अस्ति यत् कोरोनाविरुद्धे युद्धे तेषां जयः निश्चितः अस्ति ।
  • सर्वकारस्य प्रयासेषु जनाः सन्तुष्टाः सन्ति । लोक्डाउन्-कारणेन समस्याः न सन्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्