Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विदेशमन्त्रालयस्य प्रवक्त्रा रवीशकुमारेण उक्तं यत् प्रभाते पाकिस्तानेन भारतस्य सैन्यस्थात्रेषु एफ-१६ युद्धविमानैः आक्रमणं प्रारब्धमासीत् । एतस्य प्रतिकाररूपेण भारतीयवायुसेनया अपि तेषु एकं विमानं ध्वस्तं कृतम्। आक्रमणेऽस्मिन् भारतीयवायुसेनायाः मिग-२१-बायसन-युद्धविमानं क्षतिग्रस्तं जातम् । विमानापघातात् पूर्वं विमानचालकः विंग कमान्डर् इति पक्षमहासेनः अभिनन्दनः पाकिस्तानाधिकृत-कश्मीरे दुर्भाग्यवशात् पतितः। स्थानिकैः प्रताडीतः सः अनन्तरं पाकिस्तानसेनया गृहीतः ।

अभिनन्दनः मूलतः तमिलनाडुराज्यस्य तिरवंणामलई जनपदस्य निवासी अस्ति। तस्य परिवारः चेन्नईनगरे वायुसेना-अकादम्यां निवसति। तस्य अपत्यद्वयमस्ति । तौ देहल्यां पठन्तौ स्तः। अभिनन्दनस्य पिता अपि भारतीयवायुसेनायाः उच्चपदाधिकारी आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्